|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.198. अध्यायः 198
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति जपस्य फलकथनपूर्वकं जापकोपाख्यानसमापनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-198-0x(6031)(72880)
किमुत्तरं तदा तौ स्म चक्रतुस्तस्य भाषिते।
ब्राह्मणो वाऽथवा राजा तन्मे ब्रूहि पितामह॥ 12-198-1(72881)
अथवा तौ गतौ तत्र यदेतत्कीर्तितं त्वया।
संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः॥ 12-198-2(72882)
भीष्म उवाच। 12-198-3x(6032)
तथेत्येवं प्रतिश्रुत्य धर्मं संपूज्य जापकः।
यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः॥ 12-198-3(72883)
पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः।
सर्वान्संपूज्य शिरसा राजानं सोऽब्रवीद्द्विजः॥ 12-198-4(72884)
फलेनानेन संयुक्तो राजर्षे गच्छ मुख्यताम्।
भवता चाभ्यनुज्ञातो जपेयं भूय एव ह॥ 12-198-5(72885)
वरश्च मम पूर्वं हि दत्तो देव्या महाबल।
श्रद्धा ते जपतो नित्यं भवत्विति विशांपते॥ 12-198-6(72886)
राजोवाच। 12-198-7x(6033)
यद्येवं सफला सिद्धिः श्रद्धा च जपितुं तव।
गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि॥ 12-198-7(72887)
ब्राह्मण उवाच। 12-198-8x(6034)
कृतः प्रयत्नः सुमहान्सर्वेषां सन्निधाविह।
सह तुल्यफलावावां गच्छावो यत्र नौ गतिः॥ 12-198-8(72888)
भीष्म उवाच। 12-198-9x(6035)
व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः।
सह देवैरुपययौ लोकपालैस्तथैव च॥ 12-198-9(72889)
साध्याश्च विश्वे मरुतो वाक्यानि सुमहान्ति च।
नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च॥ 12-198-10(72890)
तपांसि संयोगविधिर्वेदास्तोभाः सरस्वती।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः॥ 12-198-11(72891)
गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः।
नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः॥ 12-198-12(72892)
`आजगाम च देवेशो ब्रह्मा वेदमयोऽव्ययः।'
विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत्।
अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि वा विभो॥ 12-198-13(72893)
पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम्।
ननृतुश्चाप्सरः सङ्घास्तत्रतत्र समन्ततः॥ 12-198-14(72894)
अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत्।
संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप॥ 12-198-15(72895)
भीष्म उवाच। 12-198-16x(6036)
अथ तौ सहितौ राजन्नन्योन्यस्य विधानतः।
विषयप्रतिसंहारमुभावेव प्रचक्रतुः॥ 12-198-16(72896)
प्राणापानौ तथोदानं समानं व्यानमेव च।
एवं तौ मनसि स्थाप्य दधतुः प्राणयोर्मनः॥ 12-198-17(72897)
उपस्थितकृतौ तौ च नासिकाग्रमधो भ्रुवोः।
भ्रुकुट्याक्ष्णोश्च मनसा शनैर्धारयतस्तदा॥ 12-198-18(72898)
निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ।
जितासनौ समाधाय र्मूर्धन्यात्मानमेव च॥ 12-198-19(72899)
तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः।
ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा॥ 12-198-20(72900)
हाहाकारस्तथा दिक्षु सर्वासु सुमहानभूत्।
तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा॥ 12-198-21(72901)
ततः स्वागतमित्याह तत्तेजः प्रपितामहः।
प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशांपते॥ 12-198-22(72902)
भूयश्चैवापरं प्राह वचनं मधुरं स्मयन्।
जापकैस्तुल्यफलता योगानां नात्र संशयः॥ 12-198-23(72903)
योगस्य तावदेतेभ्यः प्रत्यक्षं फलदर्शनम्।
जापकानां विशिष्टं तु प्रत्युत्थानं समाहितम्॥ 12-198-24(72904)
उष्यतां मयि चेत्युक्त्वा व्याददे स ततो मुखम्।
अथास्यं प्रविवेशास्य ब्राह्मणो विगतज्वरः॥ 12-198-25(72905)
राजाऽप्येतेन विधिना भगवन्तं पितामहम्।
यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा॥ 12-198-26(72906)
स्वयंभुवमथो देवा अभिवाद्य ततोऽब्रुवन्॥ 12-198-27(72907)
जापकार्थमयं यत्नो यदर्थं वयमागताः।
कृतपूजाविमौ तुल्यौ त्वया तुल्यफलान्वितौ॥ 12-198-28(72908)
योगजापकयोस्तुल्यं फलं सुमहदद्य वै।
सर्वांल्लोकानतिक्रम्य गच्छेतां यत्र वाञ्छितम्॥ 12-198-29(72909)
ब्रह्मोवाच। 12-198-30x(6037)
महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम्।
तावप्येतेन विधिना गच्छेतां मत्सलोकताम्॥ 12-198-30(72910)
यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः।
विधिनानेन देहान्ते मम लोकानवाप्नुयात्।
साधये गम्यतां चैव यथा स्थानानि सिद्धये॥ 12-198-31(72911)
भीष्म उवाच। 12-198-32x(6038)
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत।
आमन्त्र्य च ततो देवा ययुः स्वंस्वं निवेशनम्॥ 12-198-32(72912)
ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै।
पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतचेतसः॥ 12-198-33(72913)
एतत्फलं जापकानां गतिश्चैषा प्रकीर्तिता।
यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि॥ ॥ 12-198-34(72914)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टनवत्यधिकशततमोऽध्यायः॥ 198॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-198-1 तौ इक्ष्वाकुपैप्पलादी। तस्य विरूपस्य भाषिते वचने विषये॥ 12-198-3 अर्हतः पूज्यान्॥ 12-198-9 व्यवसायं निश्चयम्॥ 12-198-11 स्तोभाः सामगीतिपूरणार्थनि अक्षराणि हायि हावु इत्यादीनि॥ 12-198-18 नेत्राग्रैश्चैव मनसेति ट. पाठः॥ 12-198-20 तालुदेशं ब्रह्मरन्ध्रम्॥ 12-198-23 योगानां योगिनाम्॥ 12-198-24 एतेभ्य एतेषां सभ्यानाम्। समाहितं विहितम्॥ 12-198-30 संहिताध्यायिनां फलमुक्त्वा षडङ्गाध्यायिनां मन्वादिस्मृत्यध्यायिनां च फलमाह महास्मृतिमिति॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|